Srimad Valmiki Ramayanam

Balakanda Sarga 71

Janaka narrates his family lineage !!

|| om tat sat ||

Balakanda : Seventy firts Sarga
बालकांड
एकसप्ततितम सर्गः

 

एवं ब्रुवाणं जनकः प्रत्युवाच कृतांजलिः ।
श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥

स॥ एवं ब्रुवाणं ( वसिष्ठं) जनकः कृतांजलिः प्रत्युवाच । भद्रं ते । नः परिकीर्तितं कुलं श्रोतुमर्हसि ॥

Paying obeisance to the one who has spoken thus, Janaka replied as under." May all be well with you. You may also listen about my reputed lineage"

प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः ।
वक्तव्यं कुलजातेन तन्निभोध महामुने ॥

स॥ हे मुनिश्रेष्ठ ! कुलजातेन प्रदाने निरवशेषतः वक्तव्यं हि ॥

"Oh Best of Sages ! The head of the family should detail his family lineage without leaving anything at the time of giving away ( his daughter)"

राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।
निमिः परम धर्मात्मा सर्व सत्त्ववतां वरः ॥
तस्यपुत्त्रो मिधिर्नामा मिथिला येन निर्मिता ।
प्रथमो जनको नाम जनकादप्युदावसुः ॥

स॥ निमिः परमधर्मात्मा त्रिषु स्वेन कर्मणा लोकेषु विश्रुतः सर्व सत्त्ववतां वरः राजा अभूत् ॥तस्य पुत्रः मिथिः नाम । येन मिथिला निर्मितः । प्रथमो जनकः नामः । जनकाद् अपि उदावसुः ॥

The supremely righteous King Nimi was known in all the three worlds by his deeds and was the most powerful among the powerful. His son was named Mithi. The city of Mithila was built by him. He is the first "Janaka". Janaka had a son by name Udavasu.


उदावसोस्तु धर्मात्मा जातो वै नंदिवर्धनः ।
नंदिवर्धन पुत्त्रस्तु सुकेतुर्नाम नामतः ॥
सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
देवरातस्य राजर्षेः बृहद्रथ इति स्मृतः ॥

स॥ उदावसो जातो धर्मात्मा नंदिवर्थनः । नंदिवर्थन पुत्त्रः सुकेतुः नाम नामतः तु ॥ सुकेतोः अपि धर्मात्मा महाबलः देवरातः । देवरातस्य बृहद्रथः राजर्षेः इति स्मृतः ॥

Udavasa had righteous Nandivardhana. Nanadivardhana's son is Suketu. Suketu had righteous and powerful son by name Devarata. Devarata had Bruhadratha a Rajarshi.

बृहद्रथस्य शूरोsभूत् महावीरः प्रतापवान् ।
महावीरस्य धृतिमान् सुधृति स्सत्यविक्रमः ॥
सुधृतेरपि धर्मात्मा दृष्टकेतु स्सुधार्मिकः ।
दृष्टकेतोस्तु राजर्षेः हर्यश्व इति विश्रुतः ॥

स॥ बृहुद्रधस्य महावीरः शूरः महाप्रतापः अभूत् । महावीरस्य सुधृति सत्यविक्रमः धृतिमान् अभूत् ॥
सुधृतेः अपि दृष्ठकेतुः सुधार्मिकः धर्मात्मा (अस्तु) । दृष्टकेतो हर्यस्व राजर्षेः इति विश्रुत ॥

Bruhadratha had powerful son by name Mahavira. Mahavira had a son Sudhruti a follower of Truth. Sudhruti had Drushtaketu who is a follower of Dharma. Drushtaketu had a son by name Haryasva who is a Rajarshi.

हर्यश्वस्य मरुः पुत्त्रो मरोः पुत्त्रः प्रतिंधकः ।
प्रतिंधकस्य धर्मात्मा राजा कीर्तिरथस्सुतः ॥
पुत्त्रः कीर्तिरथस्यापि देवमीढ इतिस्मृतः ।
देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥

स॥ हर्यस्वस्य मरुः पुत्त्रः । मरोः पुत्त्रः प्रतिंधिकः ॥प्रतिंधिकस्य राजा कीर्तिरथः सुतः धर्मात्मा (अस्तु) ॥ कीर्तिरथस्य पुत्त्रः देवमीढः इति स्मृतः । देवमीढस्य विबुधः ।विबुधस्य महीध्रकः ॥

Haryasva's son is Maru. Maru's son is Pratimdhaka . Pratimdhaka's son is Kirtiratha. Kirtiratha's son is Devamidha. Devamidha's son is Vibudha. Vibudha's son is Mahidraka.

महीध्रकसुतो राजा कीर्तिरातो महाबलः ।
कीर्तिरातस्य राजर्षेः महारोमा व्यजायत ॥
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।
स्वर्णरोमस्तु राजर्षेः ह्रस्व रोमा व्यजायत ॥

स॥ महीध्रक सुतः महाबलः राजा कीर्तिरातो (अस्तु) । कीर्तिरातस्य महारोमा राजर्षेः व्यजायत ॥ महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत । स्वर्णरोमस्तु ह्रस्वरोमा व्यजायत् ॥

Mahidraka's son is Kirtirata. Kirtirata had a son Rajarshi Maharoma. Maharoma's son is Swarnaroma. Swarnaroma's so is Hrasvaroma.

तस्य पुत्त्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।
ज्येष्ठो हमनुमजो भ्राता ममवीरः कुशद्वजः ॥
मांतु ज्येष्ठं पिता राज्ये सोsभिषिच्य नराधिपः ।
कुशध्वजं समावेस्य भारं मयि वनं गतः ॥
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् ।
भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम् ॥

स॥ तस्त्य धर्मज्ञस्य महात्मनः पुत्त्रद्वयं जज्ञे । अनुजो अहं ज्येष्ठः । ममभ्राता कुशध्वजः ॥नराधिपः पिता ज्येष्ठं मां राज्ये अभिषित्य कुशध्वजं भारं समावेश्य वनं गतः ॥ वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् । भ्रातरं कुशध्वजं देवसंकाशं स्नेहात् पश्यन् ।

That righteous king had two sons. Among the brothers I am the elder one. My brother is Kusadhvaja. My father who was the king went to forests after my coronation as the king and handing over the responsibility of my brother Kusadhvaja. When my old father passed away I was ruling following Dharma. I was also looking after my brother in friendly manner.

कस्यचित्त्वथ कालस्य सांकाश्यादगमत् पुरात् ।
सुधन्वा वीर्यवान् राजा मिथिलां अवरोधकः ॥
स च मे प्रेषयामास शैवं धनुरुत्तमम् ।
सीता कन्या च पद्माक्षि मह्यं व दीयतांमिति ॥

स॥ अथ कस्यचित् कालस्य सुधन्वा वीर्यवान् राजा मिथिलां पुरात् अवरोधकः सांकश्यात् अगमत् । स मे शैवं उत्तमं धनु: पद्माक्षी सीता मह्यं दीयतां व इति प्रेषयामास ॥

After some time the powerful Sudhanva wanted to create obstructions and came to Mithila from Sankasya. he sent a message asking me to give the celestial bow of Siva and the lotus eyed Sita to him.


तस्याप्रदानार्ब्रह्मर्षे युद्धमासीन्मया सह ।
स हतोs भिमुखो राजा सुधन्वातु मया रणे ।
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् ।
सांकाश्ये भ्रातरं वीरं अभ्यषिंचं कुशध्वजम् ॥

स॥ हे ब्रह्मर्षी ! तस्य अप्रदानात् मया सह युद्धं आसीत् । स राजा सुधन्वतः मया रणे अभिमुखः हतः ॥ हे मुनिश्रेष्ठ ! तं नराधिपं सुधन्वानं निहत्य सांकाश्ये भ्रातरं वीरं कुशध्वजं अभ्यषिंचं ॥

Oh Brahmarshi ! Since I refused ( his demands ) he came for a battle. Facing me in that battle he was killed. Having defeated him I made Kusadhvaja as the king of Sankasya.

कनीयानेषमे भ्राता अहं ज्येष्ठो महामुने ।
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ।
सीतां रामभद्राय भद्रं ते ऊर्मिळां लक्ष्मणाय च ॥।
वीर्य शुल्कां ममसुतां सीतां सुरसुतोपमाम्।
द्वितीयामूर्मिळां चैव त्रिर्वदामि नसंशयः ॥

स॥ हे महामुने ! एष भ्राता अहं ज्येष्टः कनीया । सीतां रामभद्राय ऊर्मिळां लक्ष्मणाय च ददामि । हे मुनिपुंगव भद्रंते ॥सुरसुतोपमं वीर्यशुल्कां मम सुतां द्वितीयां ऊर्मिळां चैव त्रिः वदामि न संशयः ॥

"Oh Venerable sage! He is my younger brother. I am the elder one. I propose to give Sita to Ramabhadra and Urmila to Lakshmana. May you be blessed. I am repeating three times that I am giving my daughter Sita an equal of Suras and secondly Urmila. There is no doubt".

रामलक्ष्मणयो राजन् गोदानं कारयस्व ह ।
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ।
मखाह्यद्य महाबाहो तृतीये दिवसे प्रभो ॥
फल्गुना मुत्तरे राजन् तस्मिन् वैवाहिकं कुरु ।
रामलक्ष्मणयोराजन् दानं कार्यं सुखोदयम् ॥

स॥ हे राजन् रामलक्ष्मणयोः गोदानं कारयस्व ह ।ततः वैवाहिकं पित्रुकार्यं च कुरु । भद्रं ते । अद्य मखः ।प्रभो महाबाहो अद्य तृतीये दिवसे उत्तर फल्गुने तस्मिन् वैवाहिकं कुरु ॥ राजन् रामलक्ष्मणयोः सुखोदयं दानं कार्यं कुरु ॥

"Oh Rajan perform donation of cows by Rama and Lakshmana . Also perform the actions related to ancestors followed by the marriage .Today is Makha. O King third day from today is Uttara Phalguni . Preform marriage under that star. For the welfare of Rama and Lakshmana perform charitable activities".

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे एकसप्ततितम स्सर्गः ॥

Thus the seventy first Sarga comes to an end .

|| ओम् तत् सत् ||

||om tat sat||

 

 

 

||om tat sat||